Sukta 8.52
अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत । पूर्वीॠतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥
अस्ता॑वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा॑य वोचत । पू॒र्वीॠ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ॥
ástāvi mánma pū́rvyaṃ bráhmendrāya vocata | pū́rvīr ṛtásya br̥hatī́r anūṣata stotúr medhā́ asr̥kṣata ||
The ancient inspired thought has been set singing; the sacred word has been spoken to Indra. The wide utterances of ṛta have sounded forth, and the seer’s powers of intelligence have been released into their flow.
अस्ता॑वि । मन्म॑ । पू॒र्व्यम् । ब्रह्म॑ । इन्द्रा॑य । वो॒च॒त॒ । पू॒र्वीः । ऋ॒तस्य॑ । बृ॒ह॒तीः । अ॒नू॒ष॒त॒ । स्तो॒तुः । मे॒धाः । अ॒सृ॒क्ष॒त॒ ॥अस्तावि । मन्म । पूर्व्यम् । ब्रह्म । इन्द्राय । वोचत । पूर्वीः । ऋतस्य । बृहतीः । अनूषत । स्तोतुः । मेधाः । असृक्षत ॥astāvi | manma | pūrvyam | brahma | indrāya | vocata | pūrvīḥ | ṛtasya | bṛhatīḥ | anūṣata | stotuḥ | medhāḥ | asṛkṣata