Sukta 8.52
समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् । सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥
समिन्द्रो॒ रायो॑ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्य॑म् । सं शु॒क्रास॒: शुच॑य॒: सं गवा॑शिर॒: सोमा॒ इन्द्र॑ममन्दिषुः ॥
sám indro rā́yo br̥hatī́r adhūnuta sám kṣóṇī sám u sū́ryam | sám śukrā́saḥ śúcayaḥ sám gavā́śiraḥ sómā índram amandiṣuḥ ||
Indra has set the vast plenitudes into motion—earth and the sun into a single harmony. The bright and pure Soma-powers, mixed with the ‘cows’ (rays), have exhilarated Indra, uniting clarity, wideness, and illumination in the seeker.
सम् । इन्द्रः॑ । रायः॑ । बृ॒ह॒तीः । अ॒धू॒नु॒त॒ । सम् । क्षो॒णी इति॑ । सम् । ऊँ॒ इति॑ । सूर्य॑म् । सम् । शु॒क्रासः॑ । शुच॑यः । सम् । गोऽआ॑शिरः । सोमाः॑ । इन्द्र॑म् । अ॒म॒न्दि॒षुः॒ ॥सम् । इन्द्रः । रायः । बृहतीः । अधूनुत । सम् । क्षोणी इति । सम् । ऊँ इति । सूर्यम् । सम् । शुक्रासः । शुचयः । सम् । गोआशिरः । सोमाः । इन्द्रम् । अमन्दिषुः ॥sam | indraḥ | rāyaḥ | bṛhatīḥ | adhūnuta | sam | kṣoṇī iti | sam | oṃ iti | sūryam | sam | śukrāsaḥ | śucayaḥ | sam | go--āśiraḥ | somāḥ | indram | amandiṣuḥ