Sukta 8.52
यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति । वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥
यस्मै॒ त्वं व॑सो दा॒नाय॒ मंह॑से॒ स रा॒यस्पोष॑मिन्वति । व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं॑ हवामहे ॥
yásmai tváṃ vaso dānā́ya máṃhase sá rāyás póṣam invati | vasūyávo vásupatiṃ śatákratuṃ stómair índraṃ havāmahe ||
To whom you, O Vasu (lord of substance), give your impelling generosity, he drives forward the increase of plenitude. We who seek the true riches call Indra, the master of riches and hundred-powered, by our ordered hymns.
यस्मै॑ । त्वम् । व॒सो॒ इति॑ । दा॒नाय॑ । मंह॑से । सः । रा॒यः । पोष॑म् । इ॒न्व॒ति॒ । व॒सु॒ऽयवः॑ । वसु॑ऽपतिम् । श॒तऽक्र॑तुम् । स्तोमैः॑ । इन्द्र॑म् । ह॒वा॒म॒हे॒ ॥यस्मै । त्वम् । वसो इति । दानाय । मंहसे । सः । रायः । पोषम् । इन्वति । वसुयवः । वसुपतिम् । शतक्रतुम् । स्तोमैः । इन्द्रम् । हवामहे ॥yasmai | tvam | vaso iti | dānāya | maṃhase | saḥ | rāyaḥ | poṣam | invati | vasu-yavaḥ | vasu-patim | śata-kratum | stomaiḥ | indram | havāmahe