Sukta 8.52
यो नो दाता स नः पिता महाँ उग्र ईशानकृत् । अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः ॥
यो नो॑ दा॒ता स न॑: पि॒ता म॒हाँ उ॒ग्र ई॑शान॒कृत् । अया॑मन्नु॒ग्रो म॒घवा॑ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा॑तु नः ॥
yó no dātā́ sá naḥ pitā́ mahā́n ugrá īśānakṛ́t | áyāmann ugró mághavā purūvásur gór áśvasya prá dātu naḥ ||
He who is our giver becomes for us our father—vast, impelling, fashioning mastery. May that mighty bounteous one set forth on his way and grant us the outflow of the luminous herds and the powers of swift movement.
यः । नः॒ । दा॒ता । सः । नः॒ । पि॒ता । म॒हान् । उ॒ग्रः । ई॒शा॒न॒ऽकृत् । अया॑मन् । उ॒ग्रः । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । गोः । अश्व॑स्य । प्र । दा॒तु॒ । नः॒ ॥यः । नः । दाता । सः । नः । पिता । महान् । उग्रः । ईशानकृत् । अयामन् । उग्रः । मघवा । पुरुवसुः । गोः । अश्वस्य । प्र । दातु । नः ॥yaḥ | naḥ | dātā | saḥ | naḥ | pitā | mahān | ugraḥ | īśāna-kṛt | ayāman | ugraḥ | magha-vā | puru-vasuḥ | goḥ | aśvasya | pra | dātu | naḥ