Sukta 8.52
यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो । तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः ॥
यस्य॒ त्वमि॑न्द्र॒ स्तोमे॑षु चा॒कनो॒ वाजे॑ वाजिञ्छतक्रतो । तं त्वा॑ व॒यं सु॒दुघा॑मिव गो॒दुहो॑ जुहू॒मसि॑ श्रव॒स्यव॑: ॥
yásya tvám indra stómeṣu cā́kano vā́je vājín śatakrato | táṃ tvā vayáṃ sudúghām iva godúho juhū́masi śravasyávaḥ ||
O Indra, master of a hundred powers, you who take delight in our hymns and in the plenitude of force (vāja), we call you—like skilled milkers drawing from a rich-yielding cow—so that we may draw out the rays of luminous fame and inner hearing.
यस्य॑ । त्वम् । इ॒न्द्र॒ । स्तोमे॑षु । चा॒कनः॑ । वाजे॑ । वा॒जि॒न् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । तम् । त्वा॒ । व॒यम् । सु॒दुघा॑म्ऽइव । गो॒ऽदुहः॑ । जु॒हू॒मसि॑ । श्र॒व॒स्यवः॑ ॥यस्य । त्वम् । इन्द्र । स्तोमेषु । चाकनः । वाजे । वाजिन् । शतक्रतो इति शतक्रतो । तम् । त्वा । वयम् । सुदुघाम्इव । गोदुहः । जुहूमसि । श्रवस्यवः ॥yasya | tvam | indra | stomeṣu | cākanaḥ | vāje | vājin | śatakrato itiśata-krato | tam | tvā | vayam | sudughām-iva | go--duhaḥ | juhūmasi | śravasyavaḥ