Sukta 8.52
य उक्था केवला दधे यः सोमं धृषितापिबत् । यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥
य उ॒क्था केव॑ला द॒धे यः सोमं॑ धृषि॒तापि॑बत् । यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ॥
yá ukthā́ kévalā dadhé yáḥ sómaṃ dhṛṣitā́ píbát | yásmai víṣṇus trī́ṇi padā́ vi-cakramé úpa mitrásya dhárma-bhiḥ ||
He who has set the pure utterances in place, who drank the Soma with daring force— for him Vishnu strode out the three steps, according to the laws of Mitra: establishing the ordered wideness for the victory.
यः । उ॒क्था । केव॑ला । द॒धे । यः । सोम॑म् । धृ॒षि॒ता । अपि॑बत् । यस्मै॑ । विष्णुः॑ । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे । उप॑ । मि॒त्रस्य॑ । धर्म॑ऽभिः ॥यः । उक्था । केवला । दधे । यः । सोमम् । धृषिता । अपिबत् । यस्मै । विष्णुः । त्रीणि । पदा । विचक्रमे । उप । मित्रस्य । धर्मभिः ॥yaḥ | ukthā | kevalā | dadhe | yaḥ | somam | dhṛṣitā | apibat | yasmai | viṣṇuḥ | trīṇi | padā | vi-cakrame | upa | mitrasya | dharma-bhiḥ