Sukta 8.51
यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयिः ॥
यस्या॒यं विश्व॒ आर्यो॒ दास॑: शेवधि॒पा अ॒रिः । ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी॑रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ॥
yásyāyaṃ víśva ā́ryo dā́saḥ śevadhipā́ aríḥ | tiráś cid aryé rúśame párīravi túbhyet só ajyate rayíḥ ||
He whose treasure-guarding enemy this entire Arya and Dasa becomes— even across the divide, for the Arya, O shining one, the stream of abundance is poured to thee alone.
यस्य॑ । अ॒यम् । विश्वः॑ । आर्यः॑ । दासः॑ । शे॒व॒धि॒ऽपाः । अ॒रिः । ति॒रः । चि॒त् । अ॒र्ये । रुश॑मे । पवी॑रवि । तुभ्य॑ । इत् । सः । अ॒ज्य॒ते॒ । र॒यिः ॥यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिपाः । अरिः । तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः ॥yasya | ayam | viśvaḥ | āryaḥ | dāsaḥ | śevadhi-pāḥ | ariḥ | tiraḥ | cit | arye | ruśame | pavīravi | tubhya | it | saḥ | ajyate | rayiḥ