Sukta 8.51
प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् । यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ॥
प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं॑ व॒धैः शुष्णं॑ निघो॒षय॑न् । य॒देदस्त॑म्भीत्प्र॒थय॑न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ॥
prá yó nanakṣé abhy ójasā kríviṃ vadháiḥ śúṣṇaṃ ni-ghoṣáyan | yadéd astambhīt pratháyann amū́ṃ dívam ā́d íj janiṣṭa pā́rthivaḥ ||
Forward goes he who, with driving force, smites Krivi; with his blows he makes Śuṣṇa roar down into defeat. When he set firm and widened yonder heaven, from that act the earthly foundation came to birth.
प्र । यः । न॒न॒क्षे । अ॒भि । ओज॑सा । क्रिवि॑म् । व॒धैः । शुष्ण॑म् । नि॒ऽघो॒षय॑न् । य॒दा । इत् । अस्त॑म्भीत् । प्र॒थय॑न् । अ॒मूम् । दिव॑म् । आत् । इत् । ज॒नि॒ष्ट॒ । पार्थि॑वः ॥प्र । यः । ननक्षे । अभि । ओजसा । क्रिविम् । वधैः । शुष्णम् । निघोषयन् । यदा । इत् । अस्तम्भीत् । प्रथयन् । अमूम् । दिवम् । आत् । इत् । जनिष्ट । पार्थिवः ॥pra | yaḥ | nanakṣe | abhi | ojasā | krivim | vadhaiḥ | śuṣṇam | ni-ghoṣayan | yadā | it | astambhīt | prathayan | amūm | divam | āt | it | janiṣṭa | pārthivaḥ