Sukta 8.51
तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥
तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा॑सो अ॒र्कमा॑नृचुः । अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ॥
turaṇyávo mádhumantaṃ ghṛtaścutáṃ víprāso arkám ānṛcúḥ | asmē rayíḥ paprathē vṛ́ṣṇyaṃ śávo 'smē suvānā́sa índavaḥ ||
The swift-striving seers have chanted the hymn, honey-full and dripping with clarified light. In us the abundance spreads wide; in us the bull-force grows— in us, as they are pressed out, the Soma-drops flow.
तु॒र॒ण्यवः॑ । मधु॑ऽमन्तम् । घृ॒त॒ऽश्चुत॑म् । विप्रा॑सः । अ॒र्कम् । आ॒नृ॒चुः॒ । अ॒स्मे इति॑ । र॒यिः । प॒प्र॒थे॒ । वृष्ण्य॑म् । शवः॑ । अ॒स्मे इति॑ । सु॒वा॒नासः॑ । इन्द॑वः ॥तुरण्यवः । मधुमन्तम् । घृतश्चुतम् । विप्रासः । अर्कम् । आनृचुः । अस्मे इति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मे इति । सुवानासः । इन्दवः ॥turaṇyavaḥ | madhu-mantam | ghṛta-ścutam | viprāsaḥ | arkam | ānṛcuḥ | asme iti | rayiḥ | paprathe | vṛṣṇyam | śavaḥ | asme iti | suvānāsaḥ | indavaḥ