Sukta 8.51
य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः । इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसे ॥
य उ॒क्थेभि॒र्न वि॒न्धते॑ चि॒किद्य ऋ॑षि॒चोद॑नः । इन्द्रं॒ तमच्छा॑ वद॒ नव्य॑स्या म॒त्यरि॑ष्यन्तं॒ न भोज॑से ॥
yá ukthebhír ná vindháte cikíd yá ṛṣi-códanaḥ | índraṃ tám ácchā vada návyasyā matír áriṣyantaṃ ná bhojase ||
He who does not find (the goal) by mere recitations, but knows—he whom the seer-force impels: speak to that Indra straight; let a fresh thought go to him, not perishing, seeking the true enjoyment (participation) of his power.
यः । उ॒क्थेभिः॑ । न । वि॒न्धते॑ । चि॒कित् । यः । ऋ॒षि॒ऽचोद॑नः । इन्द्र॑म् । तम् । अच्छ॑ । व॒द॒ । नव्य॑स्या । म॒ती । अरि॑ष्यन्तम् । न । भोज॑से ॥यः । उक्थेभिः । न । विन्धते । चिकित् । यः । ऋषिचोदनः । इन्द्रम् । तम् । अच्छ । वद । नव्यस्या । मती । अरिष्यन्तम् । न । भोजसे ॥yaḥ | ukthebhiḥ | na | vindhate | cikit | yaḥ | ṛṣi-codanaḥ | indram | tam | accha | vada | navyasyā | matī | ariṣyantam | na | bhojase