Sukta 8.51
यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे । स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम् ॥
यस्मा॑ अ॒र्कं स॒प्तशी॑र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे । स त्वि१॒॑मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य॑म् ॥
yasmā́ arkaṃ saptáśīrṣāṇam ānṛcús tridhā́tum uttamé padé | sa tv imā́ víśvā́ bhúvanāni cikradad ā́d íj janiṣṭa páuṃsyam ||
To him they have sung the chant of seven heads, founded in the threefold order, in the highest step. And he indeed has made all these worlds cry out into manifestation; from that very beginning the heroic power was born.
यस्मै॑ । अ॒र्कम् । स॒प्तऽशी॑र्षाणम् । आ॒नृ॒चुः । त्रि॒ऽधातु॑म् । उ॒त्ऽत॒मे । प॒दे । सः । तु । इ॒मा । विश्वा॑ । भुव॑नानि । चि॒क्र॒द॒त् । आत् । इत् । ज॒नि॒ष्ट॒ । पौंस्य॑म् ॥यस्मै । अर्कम् । सप्तशीर्षाणम् । आनृचुः । त्रिधातुम् । उत्तमे । पदे । सः । तु । इमा । विश्वा । भुवनानि । चिक्रदत् । आत् । इत् । जनिष्ट । पौंस्यम् ॥yasmai | arkam | sapta-śīrṣāṇam | ānṛcuḥ | tri-dhātum | ut-tame | pade | saḥ | tu | imā | viśvā | bhuvanāni | cikradat | āt | it | janiṣṭa | paiṃsyam