Sukta 8.50
एतावतस्ते वसो विद्याम शूर नव्यसः । यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥
ए॒ताव॑तस्ते वसो वि॒द्याम॑ शूर॒ नव्य॑सः । यथा॒ प्राव॒ एत॑शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश॑व्रजे ॥
etā́vatas te vaso vidyā́ma śūra návyasaḥ | yáthā prá ā́va etáśaṃ kṛ́tvye dháne yáthā váśaṃ dáśa-vraje ||
So much of you, O Rich One, O Hero, we would know anew: how you brought forward Etaśa in the toilsome winning of the treasure, how you brought Vaśa out from the tenfold enclosure.
ए॒ताव॑तः । ते॒ । व॒सो॒ इति॑ । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः । यथा॑ । प्र । आवः॑ । एत॑शम् । कृत्व्ये॑ । धने॑ । यथा॑ । वश॑म् । दश॑ऽव्रजे ॥एतावतः । ते । वसो इति । विद्याम । शूर । नव्यसः । यथा । प्र । आवः । एतशम् । कृत्व्ये । धने । यथा । वशम् । दशव्रजे ॥etāvataḥ | te | vaso iti | vidyāma | śūra | navyasaḥ | yathā | pra | āvaḥ | etaśam | kṛtvye | dhane | yathā | vaśam | daśa-vraje