Sukta 8.50
यद्ध नूनं परावति यद्वा पृथिव्यां दिवि । युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहि ॥
यद्ध॑ नू॒नं प॑रा॒वति॒ यद्वा॑ पृथि॒व्यां दि॒वि । यु॒जा॒न इ॑न्द्र॒ हरि॑भिर्महेमत ऋ॒ष्व ऋ॒ष्वेभि॒रा ग॑हि ॥
yád dha nūnáṃ parāváti yád vā pṛthivyā́ṃ diví | yujānó indra háribhir mahemate ṛ́ṣva ṛ́ṣvebhir ā́ gahi ||
Whether now you are in the far distance, or on earth, or in heaven, yoking your tawny powers, O Indra, come to our great-intention; O High One, come with the high energies.
यत् । ह॒ । नू॒नम् । प॒रा॒ऽवति॑ । यत् । वा॒ । पृ॒थि॒व्याम् । दि॒वि । यु॒जा॒नः । इ॒न्द्र॒ । हरि॑ऽभिः । म॒हे॒ऽम॒ते॒ । ऋ॒ष्वः । ऋ॒ष्वेभिः॑ । आ । ग॒हि॒ ॥यत् । ह । नूनम् । परावति । यत् । वा । पृथिव्याम् । दिवि । युजानः । इन्द्र । हरिभिः । महेमते । ऋष्वः । ऋष्वेभिः । आ । गहि ॥yat | ha | nūnam | parāvati | yat | vā | pṛthivyām | divi | yujānaḥ | indra | hari-bhiḥ | mahe--mate | ṛṣvaḥ | ṛṣvebhiḥ | ā | gahi