Sukta 8.50
प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः । उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे ॥
प्र वी॒रमु॒ग्रं विवि॑चिं धन॒स्पृतं॒ विभू॑तिं॒ राध॑सो म॒हः । उ॒द्रीव॑ वज्रिन्नव॒तो व॑सुत्व॒ना सदा॑ पीपेथ दा॒शुषे॑ ॥
prá vīrám ugráṃ vívicim dhana-spṛ́taṃ víbhūtiṃ rā́dhaso maháḥ | udrī́va vajrinn avató vasu-tvánā sádā pīpetha dā́śuṣe ||
Bring forward the heroic and puissant Force, the discerner, the finder of the riches, the wide abundance of the great plenitude. O wielder of the thunder-force, like a lifting surge you ever increase the giver by your power of true wealth.
प्र । वी॒रम् । उ॒ग्रम् । विवि॑चिम् । ध॒न॒ऽस्पृत॑म् । विऽभू॑तिम् । राध॑सः । म॒हः । उ॒द्रीऽइ॑व । व॒ज्रि॒न् । अ॒व॒तः । व॒सु॒ऽत्व॒ना । सदा॑ । पी॒पे॒थ॒ । दा॒शुषे॑ ॥प्र । वीरम् । उग्रम् । विविचिम् । धनस्पृतम् । विभूतिम् । राधसः । महः । उद्रीइव । वज्रिन् । अवतः । वसुत्वना । सदा । पीपेथ । दाशुषे ॥pra | vīram | ugram | vivicim | dhana-spṛtam | vi-bhūtim | rādhasaḥ | mahaḥ | udrī-iva | vajrin | avataḥ | vasu-tvanā | sadā | pīpetha | dāśuṣe