Sukta 8.50
आ नः सोमे स्वध्वर इयानो अत्यो न तोशते । यं ते स्वदावन्त्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥
आ न॒: सोमे॑ स्वध्व॒र इ॑या॒नो अत्यो॒ न तो॑शते । यं ते॑ स्वदाव॒न्त्स्वद॑न्ति गू॒र्तय॑: पौ॒रे छ॑न्दयसे॒ हव॑म् ॥
ā́ naḥ sóme svadhvará iyā́nó átyo ná tóśate | yáṃ te svadāvánt svádanti gūrtáyaḥ pauré chandayase hávam ||
Come to us, O Soma, moving in the right-ordered sacrifice, like a racing steed that cannot be held back. The well-uttered affirmations taste your sweetness; and in the fullness of the being you consent to our call.
आ । नः॒ । सोमे॑ । सु॒ऽअ॒ध्व॒रे । इ॒या॒नः । अत्यः॑ । न । तो॒श॒ते॒ । यम् । ते॒ । स्व॒दा॒ऽव॒न् । स्वद॑न्ति । गू॒र्त्यः॑ । पौ॒रे । छ॒न्द॒य॒से॒ । हव॑म् ॥आ । नः । सोमे । सुअध्वरे । इयानः । अत्यः । न । तोशते । यम् । ते । स्वदावन् । स्वदन्ति । गूर्त्यः । पौरे । छन्दयसे । हवम् ॥ā | naḥ | some | su-adhvare | iyānaḥ | atyaḥ | na | tośate | yam | te | svadāvan | svadanti | gūrtyaḥ | paure | chandayase | havam