Sukta 8.50
अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः । आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥
अ॒ने॒हसं॑ वो॒ हव॑मानमू॒तये॒ मध्व॑: क्षरन्ति धी॒तय॑: । आ त्वा॑ वसो॒ हव॑मानास॒ इन्द॑व॒ उप॑ स्तो॒त्रेषु॑ दधिरे ॥
anéháṃsaṃ vo hávamānam ūtáye mádhvaḥ kṣaranti dhītáyaḥ | ā́ tvā vaso hávamānāsa índava úpa stótreṣu dadhire ||
O Rich One, when we call to you for help, our illumined thoughts pour out sweetness like honey-wine. These pressing-drops, invoking you, set you here—near, within our hymns—so that your force may work in the consciousness.
अ॒ने॒हस॑म् । वः॒ । हव॑मानम् । ऊ॒तये॑ । मध्वः॑ । क्ष॒र॒न्ति॒ । धी॒तयः॑ । आ । त्वा॒ । व॒सो॒ इति॑ । हव॑मानासः । इन्द॑वः । उप॑ । स्तो॒त्रेषु॑ । द॒धि॒रे॒ ॥अनेहसम् । वः । हवमानम् । ऊतये । मध्वः । क्षरन्ति । धीतयः । आ । त्वा । वसो इति । हवमानासः । इन्दवः । उप । स्तोत्रेषु । दधिरे ॥anehasam | vaḥ | havamānam | ūtaye | madhvaḥ | kṣaranti | dhītayaḥ | ā | tvā | vaso iti | havamānāsaḥ | indavaḥ | upa | stotreṣu | dadhire