Sukta 8.50
यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः । आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे ॥
यदीं॑ सु॒तास॒ इन्द॑वो॒ऽभि प्रि॒यमम॑न्दिषुः । आपो॒ न धा॑यि॒ सव॑नं म॒ आ व॑सो॒ दुघा॑ इ॒वोप॑ दा॒शुषे॑ ॥
yád īṃ sutā́sa índavo 'bhí priyám amándiṣuḥ | ā́po na dhā́yi sávanaṃ me ā́ vaso dúghā iva úpa dā́śuṣe ||
When the pressed drops, the Indus, have exhilarated him toward what is dear, then my offering is set in place like waters. O Vasu (rich one), come near to the giver, as a milch-cow comes near to yield her nourishing flow.
यत् । ई॒म् । सु॒तासः॑ । इन्द॑वः । अ॒भि । प्रि॒यम् । अम॑न्दिषुः । आपः॑ । न । धा॒यि॒ । सव॑नम् । मे॒ । आ । व॒सो॒ इति॑ । दुघा॑ऽइव । उप॑ । दा॒शुषे॑ ॥यत् । ईम् । सुतासः । इन्दवः । अभि । प्रियम् । अमन्दिषुः । आपः । न । धायि । सवनम् । मे । आ । वसो इति । दुघाइव । उप । दाशुषे ॥yat | īm | sutāsaḥ | indavaḥ | abhi | priyam | amandiṣuḥ | āpaḥ | na | dhāyi | savanam | me | ā | vaso iti | dughāiva | upa | dāśuṣe