Sukta 8.50
शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः । गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥
श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः । गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥
śatā́nīkā hetáyo asya duṣṭárā índrasya samíṣo mahī́ḥ | girír na bhujmā́ maghávat-su pinvate yád īṃ sutā́ amándiṣuḥ ||
Hundred-edged are his weapons, hard to pass; vast are the impelling energies of Indra. Like a mountain’s broad mass he swells among the bounteous when the pressed Soma-drops have made him blaze with delight.
श॒तऽअ॑नी॑काः । हे॒तयः॑ । अ॒स्य॒ । दु॒स्तराः॑ । इन्द्र॑स्य । स॒म्ऽइषः॑ । म॒हीः । गि॒रिः । न । भु॒ज्मा । म॒घव॑त्ऽसु । पि॒न्व॒ते॒ । यत् । ई॒म् । सु॒ताः । अम॑न्दिषुः ॥शतअनीकाः । हेतयः । अस्य । दुस्तराः । इन्द्रस्य । सम्इषः । महीः । गिरिः । न । भुज्मा । मघवत्सु । पिन्वते । यत् । ईम् । सुताः । अमन्दिषुः ॥śata-anīkāḥ | hetayaḥ | asya | dustarāḥ | indrasya | sam-iṣaḥ | mahīḥ | gir iḥ | na | bhujmā | maghavat-su | pinvate | yat | īm | sutāḥ | amandiṣuḥ