Sukta 8.5
उत नो गोमतीरिष उत सातीरहर्विदा । वि पथः सातये सितम् ॥
उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा । वि प॒थः सा॒तये॑ सितम् ॥
utá no gómatīr íṣa utá sātī́r aharvidā́ | ví patháḥ sātáye sitam ||
And grant us impulses rich in rays of knowledge, and victories that know the Day; make wide and clear the paths for our attainment, so the soul may walk in the order of success.
उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । उ॒त । सा॒तीः । अ॒हः॒ऽवि॒दा॒ । वि । प॒थः । सा॒तये॑ । सि॒त॒म् ॥उत । नः । गोमतीः । इषः । उत । सातीः । अहःविदा । वि । पथः । सातये । सितम् ॥uta | naḥ | go--matīḥ | iṣaḥ | uta | sātīḥ | ahaḥ-vidā | vi | pathaḥ | sātaye | sitam