Sukta 8.5
हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः । धीजवना नासत्या ॥
हि॒र॒ण्यये॑न॒ रथे॑न द्र॒वत्पा॑णिभि॒रश्वै॑: । धीज॑वना॒ नास॑त्या ॥
hiraṇyáyena ráthena drávátpāṇibhir áśvaiḥ | dhī́javanā nā́satyā ||
With the golden chariot, with horses whose very ‘hands’ are swift, O Nāsatyas, rapid in inspired thought—enter our being and make our intelligence a speed of light that carries the life forward in truth.
हि॒र॒ण्यये॑न । रथे॑न । द्र॒वत्पा॑णिऽभिः । अश्वैः॑ । धीऽज॑वना । नास॑त्या ॥हिरण्ययेन । रथेन । द्रवत्पाणिभिः । अश्वैः । धीजवना । नासत्या ॥hiraṇyayena | rathena | dravatpāṇi-bhiḥ | aśvaiḥ | dhī-javanā | nāsatyā