Sukta 8.5
एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः । अच्छा स्वध्वरं जनम् ॥
एह वां॑ प्रुषि॒तप्स॑वो॒ वयो॑ वहन्तु प॒र्णिन॑: । अच्छा॑ स्वध्व॒रं जन॑म् ॥
éha vām pruṣitápsavo váyo vahantu párṇinaḥ | ácchā svadhvaráṃ jánam ||
Hither let the winged powers, rich with sparkling strength, carry you; come to the people whose sacrifice is well-ordered—so the right rhythm of offering may become a right rhythm of the inner life.
आ । इ॒ह । वा॒म् । प्रु॒षि॒तऽप्स॑वः । वयः॑ । व॒ह॒न्तु॒ । प॒र्णिनः॑ । अच्छ॑ । सु॒ऽअ॒ध्व॒रम् । जन॑म् ॥आ । इह । वाम् । प्रुषितप्सवः । वयः । वहन्तु । पर्णिनः । अच्छ । सुअध्वरम् । जनम् ॥ā | iha | vām | pruṣita-psavaḥ | vayaḥ | vahantu | parṇinaḥ | accha | su-adhvaram | janam