Sukta 8.5
आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना । पुरुश्चन्द्रा नासत्या ॥
आ नो॑ द्यु॒म्नैरा श्रवो॑भि॒रा रा॒या या॑तमश्विना । पुरु॑श्चन्द्रा॒ नास॑त्या ॥
ā́ no dyumnáir ā́ śrávobhir ā́ rāyā́ yātam aśvinā | púruścandrā nā́satyā ||
Come to us with illumined powers, with wideness of fame, with the fullness of being; O Aśvins, many-rayed Nāsatyas, bring the shining multiplicity that makes our nature a clear field for truth.
आ । नः॒ । द्यु॒मैः । आ । श्रवः॑ऽभिः । आ । रा॒या । या॒त॒म् । अ॒श्वि॒ना॒ । पुरु॑ऽचन्द्रा । नास॑त्या ॥आ । नः । द्युमैः । आ । श्रवःभिः । आ । राया । यातम् । अश्विना । पुरुचन्द्रा । नासत्या ॥ā | naḥ | dyumaiḥ | ā | śravaḥ-bhiḥ | ā | rāyā | yātam | aśvinā | puru-candrā | nāsatyā