Sukta 8.5
तेन नो वाजिनीवसू परावतश्चिदा गतम् । उपेमां सुष्टुतिं मम ॥
तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम् । उपे॒मां सु॑ष्टु॒तिं मम॑ ॥
téna no vājinīvasū parāvátaś cidā́ gatam | upemā́ṃ suṣṭutíṃ máma ||
With that (same saving power), O lords of victorious plenitudes, come to us even from the farthest distance; draw near to this well-shaped praise of mine, and let it become a channel for your increase in us.
तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प॒रा॒ऽवतः॑ । चि॒त् । आ । ग॒त॒म् । उप॑ । इ॒माम् । सु॒ऽस्तु॒तिम् । मम॑ ॥तेन । नः । वाजिनीवसू इति वाजिनीवसू । परावतः । चित् । आ । गतम् । उप । इमाम् । सुस्तुतिम् । मम ॥tena | naḥ | vājinīvasūitivājinī-vasū | parāvataḥ | cit | ā | gatam | upa | imām | su-stutim | mama