Sukta 8.5
युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत । वाचं दूतो यथोहिषे ॥
यु॒वाभ्यां॑ वाजिनीवसू॒ प्रति॒ स्तोमा॑ अदृक्षत । वाचं॑ दू॒तो यथो॑हिषे ॥
yuvā́bhyāṃ vājínīvasū práti stómā adṛkṣata | vā́caṃ dūtó yáthóhiṣe ||
To you two, O possessors of dynamic plenitude, the hymns have looked forth in answer; as a messenger, speech comes to you, taking its seat in you.
यु॒वाभ्या॑म् । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । प्रति॑ । स्तोमाः॑ । अ॒दृ॒क्ष॒त॒ । वाच॑म् । दू॒तः । यथा॑ । ओ॒हि॒षे॒ ॥युवाभ्याम् । वाजिनीवसू इति वाजिनीवसू । प्रति । स्तोमाः । अदृक्षत । वाचम् । दूतः । यथा । ओहिषे ॥yuvābhyām | vājinīvasūitivājinī-vasū | prati | stomāḥ | adṛkṣata | vācam | dūtaḥ | yathā | ohiṣe