Sukta 8.5
रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना । आ हि स्थाथो दिविस्पृशम् ॥
रथं॒ हिर॑ण्यवन्धुरं॒ हिर॑ण्याभीशुमश्विना । आ हि स्थाथो॑ दिवि॒स्पृश॑म् ॥
ráthaṃ híraṇyavandhuraṃ híraṇyābhīśum aśvinā | ā hí sthā́tho divispṛ́śam ||
On the chariot yoked with golden harness, with golden reins, O Aśvins—stand forth and come: your movement touches heaven; let that higher reach enter our present journey.
रथ॑म् । हिर॑ण्यऽवन्धुरम् । हिर॑ण्यऽअभीशुम् । अ॒श्वि॒ना॒ । आ । हि । स्थाथः॑ । दि॒वि॒ऽस्पृश॑म् ॥रथम् । हिरण्यवन्धुरम् । हिरण्यअभीशुम् । अश्विना । आ । हि । स्थाथः । दिविस्पृशम् ॥ratham | hiraṇya-vandhuram | hiraṇya-abhīśum | aśvinā | ā | hi | sthāthaḥ | divi-spṛśam