Sukta 8.5
उत नो दिव्या इष उत सिन्धूँरहर्विदा । अप द्वारेव वर्षथः ॥
उ॒त नो॑ दि॒व्या इष॑ उ॒त सिन्धूँ॑रहर्विदा । अप॒ द्वारे॑व वर्षथः ॥
utá no divyā́ íṣa utá síndhūṃr aharvidā́ | ápa dvā́reva varṣathaḥ ||
And for us pour down the heavenly impulsions; and (open) the rivers of flow by the knowers of the Day—pour them out as if unbarring doors, O Aśvins.
उ॒त । नः॒ । दि॒व्याः । इषः॑ । उ॒त । सिन्धू॑न् । अ॒हः॒ऽवि॒दा॒ । अप॑ । द्वारा॑ऽइव । व॒र्ष॒थः॒ ॥उत । नः । दिव्याः । इषः । उत । सिन्धून् । अहःविदा । अप । द्वाराइव । वर्षथः ॥uta | naḥ | divyāḥ | iṣaḥ | uta | sindhūn | ahaḥ-vidā | apa | dvārāiva | vaṣarthaḥ