Sukta 8.5
तेन नो वाजिनीवसू पश्वे तोकाय शं गवे । वहतं पीवरीरिषः ॥
तेन॑ नो वाजिनीवसू॒ पश्वे॑ तो॒काय॒ शं गवे॑ । वह॑तं॒ पीव॑री॒रिष॑: ॥
téna no vājinīvasū paśvé tokā́ya śáṃ gáve | váhatam pī́varīr íṣaḥ ||
By that (delight you accept), O possessors of plenitude of force, bring to us nurturing increase—well-being for our energies, for our growing soul-child, and for the luminous herds (rays of knowledge).
तेन॑ । नः॒ । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । पश्वे॑ । तो॒काय॑ । शम् । गवे॑ । वह॑तम् । पीव॑रीः । इषः॑ ॥तेन । नः । वाजिनीवसू इति वाजिनीवसू । पश्वे । तोकाय । शम् । गवे । वहतम् । पीवरीः । इषः ॥tena | naḥ | vājinīvasūitivājinī-vasū | paśve | tokāya | śam | gave | vahatam | pīvarīḥ | iṣaḥ