Sukta 8.5
पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः । वाघद्भिरश्विना गतम् ॥
पु॒रु॒त्रा चि॒द्धि वां॑ नरा वि॒ह्वय॑न्ते मनी॒षिण॑: । वा॒घद्भि॑रश्वि॒ना ग॑तम् ॥
purutrā ciddhí vāṃ narā vihváyante manīṣíṇaḥ | vāghádbhir aśvinā gátam ||
Truly, in many places the illumined thinkers call you, O two heroic powers. O Aśvins, come with the seers’ uplifted utterance (that bears the offering) into our being.
पु॒रु॒ऽत्रा । चि॒त् । हि । वा॒म् । न॒रा॒ । वि॒ऽह्वय॑न्ते । म॒नी॒षिणः॑ । वा॒घत्ऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥पुरुत्रा । चित् । हि । वाम् । नरा । विह्वयन्ते । मनीषिणः । वाघत्भिः । अश्विना । आ । गतम् ॥puru-trā | cit | hi | vām | narā | vi-hvayante | manīṣiṇaḥ | vāghat-bhiḥ | aśvinā | ā | gatam