Sukta 8.5
अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् । पुरुक्षुं विश्वधायसम् ॥
अ॒स्मे आ व॑हतं र॒यिं श॒तव॑न्तं सह॒स्रिण॑म् । पु॒रु॒क्षुं वि॒श्वधा॑यसम् ॥
asmé ā́ vahatam rayíṃ śatávantaṃ sahasríṇam | purukṣúṃ viśvádhāyasam ||
Bring to us the rayi, a plenitude that multiplies in hundreds and thousands—abundant in many growths—supporting all our powers and sustaining the whole being.
अ॒स्मे इति॑ । आ । व॒ह॒त॒म् । र॒यिम् । श॒तऽव॑न्तम् । स॒ह॒स्रिण॑म् । पु॒रु॒ऽक्षुम् । वि॒श्वऽधा॑यसम् ॥अस्मे इति । आ । वहतम् । रयिम् । शतवन्तम् । सहस्रिणम् । पुरुक्षुम् । विश्वधायसम् ॥asme iti | ā | vahatam | rayim | śata-vantam | sahasriṇam | puru-kṣum | viśva-dhāyasam