Sukta 8.5
अस्य पिबतमश्विना युवं मदस्य चारुणः । मध्वो रातस्य धिष्ण्या ॥
अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः । मध्वो॑ रा॒तस्य॑ धिष्ण्या ॥
asyá píbatam aśvinā yuváṃ mádasya cā́ruṇaḥ | mádhvo rātásya dhiṣṇyā ||
Drink of this; you two are the fit enjoyers of the beautiful ecstasy—drink of the given honey-delight, O enthroned powers, and let it establish its right working within us.
अ॒स्य । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ । यु॒वम् । मद॑स्य । चा॒रु॑णः । मध्वः॑ । रा॒तस्य॑ । धि॒ष्ण्या॒ ॥अस्य । पिबतम् । अश्विना । युवम् । मदस्य । चारुणः । मध्वः । रातस्य । धिष्ण्या ॥asya | pibatam | aśvinā | yuvam | madasya | cāruṇaḥ | madhvaḥ | rātasya | dhiṣṇyā