Sukta 8.49
एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः । यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ॥
ए॒ताव॑तस्त ईमह॒ इन्द्र॑ सु॒म्नस्य॒ गोम॑तः । यथा॒ प्रावो॑ मघव॒न्मेध्या॑तिथिं॒ यथा॒ नीपा॑तिथिं॒ धने॑ ॥
etā́vatas te īmahe índra sumnásya gómataḥ | yáthā prā́vo maghavan médhyā́tithiṃ yáthā nī́pā́tithiṃ dháne ||
So much of your grace we seek, O Indra—grace that is rich in luminous ‘cows’ (rays of knowing). As you once protected Medhyātithi, O bountiful one, as you protected Nīpātithi in the gaining of plenitude.
ए॒ताव॑तः । ते॒ । ई॒म॒हे॒ । इन्द्र॑ । सु॒म्नस्य॑ । गोऽम॑तः । यथा॑ । प्र । आवः॑ । म॒घ॒ऽव॒न् । मेध्य॑ऽअतिथिम् । यथा॑ । नीप॑ऽअतिथि, । धने॑ ॥एतावतः । ते । ईमहे । इन्द्र । सुम्नस्य । गोमतः । यथा । प्र । आवः । मघवन् । मेध्यअतिथिम् । यथा । नीपअतिथि, । धने ॥etāvataḥ | te | īmahe | indra | sumnasya | go--mataḥ | yathā | pra | āvaḥ | magha-van | medhya-atithim | yathā | nīpa-atithim | dhane