Sukta 8.49
अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः । येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ॥
अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता॑ इव प्रस॒क्षिण॑: । येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ॥
ajirā́so hárayo yé ta āśávo vātā́ iva prasákṣiṇaḥ | yébhi r ápatyaṃ mánuṣaḥ parī́yase yébhi r víśvaṃ svàr dṛśé ||
Your tawny ones are swift, tireless, like winds in their surging. With them you encompass the human offspring, and with them you make all the world see the luminous heaven.
अ॒जि॒रासः॑ । हर॑यः । ये । ते॒ । आ॒शवः॑ । वाताः॑ऽइव । प्र॒ऽस॒क्षिणः॑ । येभिः॑ । अप॑त्यम् । मनु॑षः । प॒रि॒ऽईय॑से । येभिः॑ । विश्व॑म् । स्वः॑ । दृ॒शे ॥अजिरासः । हरयः । ये । ते । आशवः । वाताःइव । प्रसक्षिणः । येभिः । अपत्यम् । मनुषः । परिईयसे । येभिः । विश्वम् । स्वः । दृशे ॥ajirāsaḥ | harayaḥ | ye | te | āśavaḥ | vātāḥ-iva | pra-sakṣiṇaḥ | yebhiḥ | apatyam | manuṣaḥ | pari-īyase | yebhiḥ | viśvam | svaḥ | dṛśe