Sukta 8.49
यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे । यथा गोशर्ये असनोॠजिश्वनीन्द्र गोमद्धिरण्यवत् ॥
यथा॒ कण्वे॑ मघवन्त्र॒सद॑स्यवि॒ यथा॑ प॒क्थे दश॑व्रजे । यथा॒ गोश॑र्ये॒ अस॑नोॠ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर॑ण्यवत् ॥
yáthā káṇve maghavann trasádasyavi yáthā pakthé dáśa-vraje | yáthā góśarye ásano ṛ́jiśvani índra gómad híraṇyavat ||
As you aided the Kaṇva, O bounteous one, in the affair of Trasadasyu; as in Paktha among the ten enclosures; as in Gośarya you won for Ṛjiśvan—so, O Indra, grant us the light-wealth, rich in rays and golden fullness.
यथा॑ । कण्वे॑ । म॒घ॒ऽव॒न् । त्र॒सद॑स्यवि । यथा॑ । प॒क्थे । दश॑ऽव्रजे । यथा॑ । गोऽश॑र्ये । अस॑नोः । ऋ॒जिश्व॑नि । इन्द्र॑ । गोऽम॑त् । हिर॑ण्यऽवत् ॥यथा । कण्वे । मघवन् । त्रसदस्यवि । यथा । पक्थे । दशव्रजे । यथा । गोशर्ये । असनोः । ऋजिश्वनि । इन्द्र । गोमत् । हिरण्यवत् ॥yathā | kaṇve | magha-van | trasadasyavi | yathā | pakthe | daśa-vraje | yathā | go--śarye | asanoḥ | ṛjiśvani | indra | go--mat | hiraṇya-vat