Sukta 8.49
यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि । अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥
यद्ध॑ नू॒नं यद्वा॑ य॒ज्ञे यद्वा॑ पृथि॒व्यामधि॑ । अतो॑ नो य॒ज्ञमा॒शुभि॑र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ॥
yád dha nūnáṃ yád vā yajñé yád vā pṛthivyā́m ádhi | áto no yajñám āśúbhir mahe-mate ugrá ugrébhi r ā́ gahi ||
Whether it is now, or in the sacrifice, or upon the earth—therefore come to our offering with your swift ones, O mighty-minded; come, the formidable, with the formidable powers.
यत् । ह॒ । नू॒नम् । यत् । वा॒ । य॒ज्ञे । यत् । वा॒ । पृ॒थि॒व्याम् । अधि॑ । अतः॑ । नः॒ । य॒ज्ञम् । आ॒शुऽभिः॑ । म॒हे॒ऽम॒ते॒ । उ॒ग्रः । उ॒ग्रेभिः॑ । आ । ग॒हि॒ ॥यत् । ह । नूनम् । यत् । वा । यज्ञे । यत् । वा । पृथिव्याम् । अधि । अतः । नः । यज्ञम् । आशुभिः । महेमते । उग्रः । उग्रेभिः । आ । गहि ॥yat | ha | nūnam | yat | vā | yajñe | yat | vā | pṛthivyām | adhi | ataḥ | naḥ | yajñam | āśu-bhiḥ | mahe--mate | ugraḥ | ugrebhiḥ | ā | gahi