Sukta 8.49
आ नः स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः । यं ते स्वधावन्त्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥
आ न॒: स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः । यं ते॑ स्वधावन्त्स्व॒दय॑न्ति धे॒नव॒ इन्द्र॒ कण्वे॑षु रा॒तय॑: ॥
ā naḥ stómam úpa drávad dhiyānáḥ áśvo na sotṛ́bhiḥ | yáṃ te svadhāvans svadáyanti dhenáva índra káṇveṣu rātáyaḥ ||
Run to our hymn, impelled by the thought, as a steed runs with the pressers. For you, O Indra rich in your own power, the nourishing streams make it sweet—the gifts that awaken among the Kaṇvas.
आ । नः॒ । स्तोम॑म् । उप॑ । द्र॒वत् । हि॒या॒नः । अश्वः॑ । न । सोतृ॑ऽभिः । यम् । ते॒ । स्व॒धा॒ऽव॒न् । स्व॒दय॑न्ति । धे॒नवः॑ । इन्द्र॑ । कण्वे॑षु । रा॒तयः॑ ॥आ । नः । स्तोमम् । उप । द्रवत् । हियानः । अश्वः । न । सोतृभिः । यम् । ते । स्वधावन् । स्वदयन्ति । धेनवः । इन्द्र । कण्वेषु । रातयः ॥ā | naḥ | stomam | upa | dravat | hiyānaḥ | aśvaḥ | na | sotṛ-bhiḥ | yam | te | svadhāvan | svadayanti | dhenavaḥ | indra | kaṇveṣu | rātayaḥ