Sukta 8.49
शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे । गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥
श॒तानी॑केव॒ प्र जि॑गाति धृष्णु॒या हन्ति॑ वृ॒त्राणि॑ दा॒शुषे॑ । गि॒रेरि॑व॒ प्र रसा॑ अस्य पिन्विरे॒ दत्रा॑णि पुरु॒भोज॑सः ॥
śatā́nīkeva prá jigāti dhṛṣṇu-yā́ hánti vṛtrā́ṇi dāśúṣe | girériva prá rasā́ asya pinvire dátrāṇi puru-bhójasāḥ ||
Like a host of a hundred banners he advances; with impetuous force he strikes down the Vṛtras for the giver. Like juices streaming from a mountain, his gifts swell forth—he of abundant enjoyment and power.
श॒तानी॑काऽइव । प्र । जि॒गा॒ति॒ । धृ॒ष्णु॒ऽया । हन्ति॑ । वृ॒त्राणि॑ । दा॒शुषे॑ । गि॒रेःऽइ॑व । प्र । रसाः॑ । अ॒स्य॒ । पि॒न्वि॒रे॒ । दत्रा॑णि । पु॒रु॒ऽभोज॑सः ॥शतानीकाइव । प्र । जिगाति । धृष्णुया । हन्ति । वृत्राणि । दाशुषे । गिरेःइव । प्र । रसाः । अस्य । पिन्विरे । दत्राणि । पुरुभोजसः ॥śatānīkāiva | pra | jigāti | dhṛṣṇu-yā | hanti | vṛtrāṇi | dāśuṣe | gireḥ-iva | pra | rasāḥ | asya | pinvire | datrāṇi | puru-bhojasaḥ