Sukta 8.49
अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे । यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥
अ॒भि प्र व॑: सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा॑ वि॒दे । यो ज॑रि॒तृभ्यो॑ म॒घवा॑ पुरू॒वसु॑: स॒हस्रे॑णेव॒ शिक्ष॑ति ॥
abhí prá vaḥ su-rā́dhasam índram arca yáthā vidé | yó jaritṛ́bhyo maghávā purū-vásuḥ sahásreṇeva śíkṣati ||
Sing forth to Indra of the good bounty, so that you may know and realize him—he, the bounteous one rich in many plenitudes, who trains and enriches the praiser as though with a thousandfold force.
अ॒भि । प्र । वः॒ । सु॒ऽराध॑सम् । इन्द्र॑म् । अ॒र्च॒ । यथा॑ । वि॒दे । यः । ज॒रि॒तृऽभ्यः॑ । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । स॒हस्रे॑णऽइव । शिक्ष॑ति ॥अभि । प्र । वः । सुराधसम् । इन्द्रम् । अर्च । यथा । विदे । यः । जरितृभ्यः । मघवा । पुरुवसुः । सहस्रेणइव । शिक्षति ॥abhi | pra | vaḥ | su-rādhasam | indram | arca | yathā | vide | yaḥ | jaritṛ-bhyaḥ | magha-vā | puru-vasuḥ | sahasreṇa-iva | śikṣati