Sukta 8.47
अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु । माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुतयो व ऊतयः ॥
अदि॑तिर्न उरुष्य॒त्वदि॑ति॒: शर्म॑ यच्छतु । मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
áditiḥ na uruṣyátv áditiḥ śárma yacchatu | mātā́ mitrásya revató ’ryamṇó váruṇasya ca anehasaḥ vo ūtáyaḥ su-ūtáyaḥ vo ūtáyaḥ ||
May Aditi make us wide and safe; may Aditi give us the shelter of peace—she who is the Mother of Mitra the rich in light, of Aryaman, and of Varuṇa. May your harmless helps, your good helps, be with us.
अदि॑तिः । नः॒ । उ॒रु॒ष्य॒तु॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ । मा॒ता । मि॒त्रस्य॑ । रे॒वतः॑ । अ॒र्य॒म्णः । वरु॑णस्य । च॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥अदितिः । नः । उरुष्यतु । अदितिः । शर्म । यच्छतु । माता । मित्रस्य । रेवतः । अर्यम्णः । वरुणस्य । च । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥aditiḥ | naḥ | uruṣyatu | aditiḥ | śarma | yacchatu | mātā | mitrasya | revataḥ | ayarmṇaḥ | varuṇasya | ca | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ