Sukta 8.47
युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु । यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुतयो व ऊतयः ॥
यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्य॑न्त इव॒ वर्म॑सु । यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
yuṣmé devā́ ápi ṣmasi yúdhyanta iva vármasu | yūyáṃ mahó na énaso yūyám arbhā́d uruṣyatānehasaḥ vo ūtáyaḥ su-ūtáyaḥ vo ūtáyaḥ ||
In you, O Gods, we take our stand as fighters within armour. You are the ones who save us from the great transgression and from the small; may your harmless helps, your good helps, be with us.
यु॒ष्मे इति॑ । दे॒वाः॒ । अपि॑ । स्म॒सि॒ । युध्य॑न्तःऽइव । वर्म॑सु । यू॒यम् । म॒हः । नः॒ । एन॑सः । यू॒यम् । अर्भा॑त् । उ॒रु॒ष्य॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥युष्मे इति । देवाः । अपि । स्मसि । युध्यन्तःइव । वर्मसु । यूयम् । महः । नः । एनसः । यूयम् । अर्भात् । उरुष्यत । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥yuṣme iti | devāḥ | api | smasi | yudhyantaḥ-iva | varmasu | yūyam | mahaḥ | naḥ | enasaḥ | yūyam | arbhāt | uruṣyata | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ