Sukta 8.47
न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु । यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुतयो व ऊतयः ॥
न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु । यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
na táṃ tigmáṃ caná tyájo na drā́sad abhí táṃ gurú | yásmā u śárma sa-prátha ādityāso arā́dhvam anehasaḥ vo ūtáyaḥ su-ūtáyaḥ vo ūtáyaḥ ||
Let no sharp assault, no crushing weight fall upon him. For whom you spread out a wide shelter, O Ādityas, to that one be gracious—may your harmless helps, your good helps, come to us.
न । तम् । ति॒ग्मम् । च॒न । त्यजः॑ । न । द्रा॒स॒त् । अ॒भि । तम् । गु॒रु । यस्मै॑ । ऊँ॒ इति॑ । शर्म॑ । स॒ऽप्रथः॑ । आदि॑त्यासः । अरा॑ध्वम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥न । तम् । तिग्मम् । चन । त्यजः । न । द्रासत् । अभि । तम् । गुरु । यस्मै । ऊँ इति । शर्म । सप्रथः । आदित्यासः । अराध्वम् । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥na | tam | tigmam | cana | tyajaḥ | na | drāsat | abhi | tam | guru | yasmai | oṃ iti | śarma | sa-prathaḥ | ādityāsaḥ | arādhvam | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ