Sukta 8.47
परिह्वृतेदना जनो युष्मादत्तस्य वायति । देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुतयो व ऊतयः ॥
प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति । देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
pari-hvṛtédanā jano yuṣmā́dattasya vāyati | devā́ adábhram ā́śa vo yám ādityā́ ahetanānehasaḥ vo ūtáyaḥ su-ūtáyaḥ vo ūtáyaḥ ||
When the human being is pressed on every side and feels diminished, he still seeks the force that is given by you. O Gods, the unfailing hope that you have set in us—O Ādityas—may it not be shaken; may your help, your good help, be with us, free from harm.
प॒रि॒ऽह्वृ॒ता । इत् । अ॒ना । जनः॑ । यु॒ष्माऽद॑त्तस्य । वा॒य॒ति॒ । देवाः॑ । अद॑भ्रम् । आ॒श॒ । वः॒ । यम् । आ॒दि॒त्याः॒ । अहे॑तन । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥परिह्वृता । इत् । अना । जनः । युष्मादत्तस्य । वायति । देवाः । अदभ्रम् । आश । वः । यम् । आदित्याः । अहेतन । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥pari-hvṛtā | it | anā | janaḥ | yuṣmādattasya | vāyati | devāḥ | adabhram | āśa | vaḥ | yam | ādityāḥ | ahetana | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ