Sukta 8.47
परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा । स्यामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुतयो व ऊतयः ॥
परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा । स्यामेदिन्द्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
pári no vṛṇajan aghā́ durgā́ṇi rathyò yáthā | syā́med índrasya śármaṇy ādityā́nām utā́vasy anéhaso va ūtáyaḥ su-ūtáyaḥ va ūtáyaḥ ||
Encompass us, warding off harms, as a charioteer avoids the hard passages. May we be in the shelter of Indra and in the help of the Ādityas. O unerring ones, your protections—your good protections—are our safeguards.
परि॑ । नः॒ । वृ॒ण॒ज॒न् । अ॒घा । दुः॒ऽगाणि॑ । र॒थ्यः॑ । य॒था॒ । स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि । आ॒दि॒त्याना॑म् । उ॒त । अव॑सि । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥परि । नः । वृणजन् । अघा । दुःगाणि । रथ्यः । यथा । स्याम । इत् । इन्द्रस्य । शर्मणि । आदित्यानाम् । उत । अवसि । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥pari | naḥ | vṛṇajan | aghā | duḥ-gāṇi | rathyaḥ | yathā | syāma | it | indrasya | śarmaṇi | ādityānām | uta | avasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ