Sukta 8.47
यस्मा अरासत क्षयं जीवातुं च प्रचेतसः । मनोर्विश्वस्य घेदिम आदित्या राय ईशतेऽनेहसो व ऊतयः सुतयो व ऊतयः ॥
यस्मा॒ अरा॑सत॒ क्षयं॑ जी॒वातुं॑ च॒ प्रचे॑तसः । मनो॒र्विश्व॑स्य॒ घेदि॒म आ॑दि॒त्या रा॒य ई॑शतेऽने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
yásmā arā́sata kṣáyaṃ jīvā́tuṃ ca prá-cetasaḥ | mánoḥ víśvasya ghéd imá ādityā́ rāyá īśate 'néhaso va ūtáyaḥ su-ūtáyaḥ va ūtáyaḥ ||
To whom the fore-knowing ones granted a home and the power to live—of Manu, of all—these Ādityas are masters of the plenitudes. O unerring ones, your protections—your good protections—are our safeguards.
यस्मै॑ । अरा॑सत । क्षय॑म् । जी॒वातु॑म् । च॒ । प्रऽचे॑तसः । मनोः॑ । विश्व॑स्य । घ॒ । इत् । इ॒मे । आ॒दि॒त्याः । रा॒यः । ई॒श॒ते॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥यस्मै । अरासत । क्षयम् । जीवातुम् । च । प्रचेतसः । मनोः । विश्वस्य । घ । इत् । इमे । आदित्याः । रायः । ईशते । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥yasmai | arāsata | kṣayam | jīvātum | ca | pra-cetasaḥ | manoḥ | viśvasya | gha | it | ime | ādityāḥ | rāyaḥ | īśate | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ