Sukta 8.47
व्यस्मे अधि शर्म तत्पक्षा वयो न यन्तन । विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुतयो व ऊतयः ॥
व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न य॑न्तन । विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
vy àsmé adhí śárma tát pakṣā́ váyo ná yantana | víśvāni viśva-vedaso varū́thyā manāmahe 'néhaso va ūtáyaḥ su-ūtáyaḥ va ūtáyaḥ ||
Set that shelter of peace upon us, as wings carry the bird. O all-knowing ones, we hold in mind all your protections as our fortress. O unerring ones, your protections—your good protections—are our safeguards.
वि । अ॒स्मे इति॑ । अधि॑ । शर्म॑ । तत् । प॒क्षा । वयः॑ । न । य॒न्त॒न॒ । विश्वा॑नि । वि॒श्व॒ऽवे॒द॒सः॒ । व॒रू॒थ्या॑ । म॒ना॒म॒हे॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥वि । अस्मे इति । अधि । शर्म । तत् । पक्षा । वयः । न । यन्तन । विश्वानि । विश्ववेदसः । वरूथ्या । मनामहे । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥vi | asme iti | adhi | śarma | tat | pakṣā | vayaḥ | na | yantana | viśvāni | viśva-vedasaḥ | varūthyā | manāmahe | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ