Sukta 8.47
विदा देवा अघानामादित्यासो अपाकृतिम् । पक्षा वयो यथोपरि व्यस्मे शर्म यच्छतानेहसो व ऊतयः सुतयो व ऊतयः ॥
वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिम् । प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
vidā́ devā́ aghā́nām ādityāso apā́kṛtim | pakṣā́ váyo yáthopári vy àsmé śárma yacchatānéhaso va ūtáyaḥ su-ūtáyaḥ va ūtáyaḥ ||
Knowing the removals of harms, O Ādityas, cast away the evil. As wings are for the bird to rise above, so spread for us a sheltering peace. O unerring ones, your protections—your good protections—are our safeguards.
वि॒द । दे॒वाः॒ । अ॒घाना॑म् । आदि॑त्यासः । अ॒प॒ऽआकृ॑तिम् । प॒क्षा । वयः॑ । यथा॑ । उ॒परि॑ । वि । अ॒स्मे इति॑ । शर्म॑ । य॒च्छ॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥विद । देवाः । अघानाम् । आदित्यासः । अपआकृतिम् । पक्षा । वयः । यथा । उपरि । वि । अस्मे इति । शर्म । यच्छत । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥vida | devāḥ | aghānām | ādityāsaḥ | apa-ākṛtim | pakṣā | vayaḥ | yathā | upari | vi | asme iti | śarma | yacchata | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ