Sukta 8.47
महि वो महतामवो वरुण मित्र दाशुषे । यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुतयो व ऊतयः ॥
महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ । यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
máhi vo mahatā́m ávo váruṇa mítra dāśúṣe | yám ādityā́ abhí drúho rákṣathā néma-gháṃ ná naśad anéhaso va ūtáyaḥ su-ūtáyaḥ va ūtáyaḥ ||
Great is your great help, O Varuṇa and Mitra, for the giver. O Ādityas, guard him from hostile crookedness; let no portion of evil reach him. O unerring ones, your protections—your good protections—are our safeguards.
महि॑ । वः॒ । म॒ह॒ताम् । अवः॑ । वरु॑ण । मित्र॑ । दा॒शुषे॑ । यम् । आ॒दि॒त्याः॒ । अ॒भि । द्रु॒हः । रक्ष॑थ । न । ई॒म् । अ॒घम् । न॒श॒त् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥महि । वः । महताम् । अवः । वरुण । मित्र । दाशुषे । यम् । आदित्याः । अभि । द्रुहः । रक्षथ । न । ईम् । अघम् । नशत् । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥mahi | vaḥ | mahatām | avaḥ | varuṇa | mitra | dāśuṣe | yam | ādityāḥ | abhi | druhaḥ | rakṣatha | na | īm | agham | naśat | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ