Sukta 8.47
यथा कलां यथा शफं यथ ऋणं संनयामसि । एवा दुष्ष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुतयो व ऊतयः ॥
यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि । ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
yáthā kalā́ṃ yáthā śapháṃ yáthā ṛṇáṃ saṃ-náyāmasi | evā́ duḥ-svápnyaṃ sárvam āptyé sáṃ nayāmasi anehaso va ūtáyaḥ su-ūtáyo va ūtáyaḥ ||
As we gather up the lost portion, as we recover what is scattered, as we settle the debt—so may we gather up and neutralize all evil-dreaming in the realm of Aptya; may your unwearied, good helps be with us.
यथा॑ । क॒लाम् । यथा॑ । श॒फम् । यथा॑ । ऋ॒णम् । स॒म्ऽनया॑मसि । ए॒व । दुः॒ऽस्वप्न्य॑म् । सर्व॑म् । आ॒प्त्ये । सम् । न॒या॒म॒सि॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥यथा । कलाम् । यथा । शफम् । यथा । ऋणम् । सम्नयामसि । एव । दुःस्वप्न्यम् । सर्वम् । आप्त्ये । सम् । नयामसि । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥yathā | kalām | yathā | śapham | yathā | ṛṇam | sam-nayāmasi | eva | duḥ-svapnyam | sarvam | āptye | sam | nayāmasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ