Sukta 8.47
अजैष्माद्यासनाम चाभूमानागसो वयम् । उषो यस्माद्दुष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुतयो व ऊतयः ॥
अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् । उषो॒ यस्मा॑द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
ájaiṣmādyā́ asanā́ma cā́bhūm ā́nāgaso vayám | uṣo yásmād duḥ-svápnyād ábhaiṣmā́pa tád ucchatu anehaso va ūtáyaḥ su-ūtáyo va ūtáyaḥ ||
Today we have conquered; we have won and become without fault. O Dawn, from that evil-dreaming which we feared—let it be put away; let it rise out and depart. Bring your unwearied, good helps to us.
अजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् । उषः॑ । यस्मा॑त् । दुः॒ऽस्वप्न्या॑त् । अभै॑ष्म । अप॑ । तत् । उ॒च्छ॒तु॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥अजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् । उषः । यस्मात् । दुःस्वप्न्यात् । अभैष्म । अप । तत् । उच्छतु । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥ajaiṣma | adya | asanāma | ca | abhūma | anāgasaḥ | vayam | uṣaḥ | yasmāt | duḥ-svapnyāt | abhaiṣma | apa | tat | ucchatu | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ