Sukta 8.47
यच्च गोषु दुष्ष्वप्न्यं यच्चास्मे दुहितर्दिवः । त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुतयो व ऊतयः ॥
यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः । त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
yác ca góṣu duḥ-svápnyaṃ yác cāsmé duhitar divaḥ | tritā́ya tád vibhāvari āptyā́ya párā vahānehasaḥ vo ūtáyaḥ su-ūtáyaḥ vo ūtáyaḥ ||
And whatever evil-dreaming is among our rays of light, and whatever is in us, O Daughter of Heaven—carry that away, O Radiant One, to Trita Āptya. May your harmless helps, your good helps, be with us.
यत् । च॒ । गोषु॑ । दुः॒ऽस्वप्न्य॑म् । यत् । च॒ । अ॒स्मे इति॑ । दु॒हि॒तः॒ । दि॒वः॒ । त्रि॒ताय॑ । तत् । वि॒भा॒ऽव॒रि॒ । आ॒प्त्याय॑ । परा॑ । व॒ह॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥यत् । च । गोषु । दुःस्वप्न्यम् । यत् । च । अस्मे इति । दुहितः । दिवः । त्रिताय । तत् । विभावरि । आप्त्याय । परा । वह । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥yat | ca | goṣu | duḥ-svapnyam | yat | ca | asme iti | duhitaḥ | divaḥ | tritāya | tat | vibhāvari | āptyāya | parā | vaha | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ