Sukta 8.47
यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतम् । त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व ऊतयः सुतयो व ऊतयः ॥
यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तम् । त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
yád āvír yád apī́cyaṃ devāso ásti duḥ-kṛtám | trité tád víśvam āptyé āré asmád dadhātana anehasaḥ vo ūtáyaḥ su-ūtáyaḥ vo ūtáyaḥ ||
Whatever wrong we have done, whether open or hidden, O Gods—place all that far away from us in Trita Āptya. May your harmless helps, your good helps, be with us.
यत् । आ॒विः । यत् । अ॒पी॒च्य॑म् । देवा॑सः । अस्ति॑ । दुः॒ऽकृ॒तम् । त्रि॒ते । तत् । विश्व॑म् । आ॒प्त्ये । आ॒रे । अ॒स्मत् । द॒धा॒त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥यत् । आविः । यत् । अपीच्यम् । देवासः । अस्ति । दुःकृतम् । त्रिते । तत् । विश्वम् । आप्त्ये । आरे । अस्मत् । दधातन । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥yat | āviḥ | yat | apīcyam | devāsaḥ | asti | duḥ-kṛtam | trite | tat | viśvam | āptye | āre | asmat | dadhātana | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ